लेट् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लेट् लकारः वेदेषु एवं अस्ति। पाणिनेः अष्टाध्याये सः लिलेख "लिङर्थे लेट्। उपसंवादाशङ्कयोश्च। (॥३।४।७-८॥)" इति। तस्य अर्थः "लेट् लकारः लिङ् लकारमिव अस्ति च लिङ् लकारमिव क्रियते। अपि च उपसंवादेषु ('यदि-तदा' वचनेषु इव) लेट् लकारः क्रियते, किन्तु केवलं छन्दग्रन्थेषु (वेदेषु)।" इति। अतः लेट् लाकरः आज्ञार्थं बोधयति। अपि च एतस्मिन लकारे परस्मैपदे किञ्चित् धातुभ्यः आकार-प्रत्यया भवति (भू → भवाति), परन्तु न सर्वेभ्यः (दुह् → दोति)[१]

भू धातोः लेट् लकारे रूपाणि [२]
लेट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवाति/भवात् भवातः भवान्
मध्यमपुरुषः भवासि/भवाः भवाथः भवाथ
उत्तमपुरुषः भवानि भवाव भवाम
लेट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः (आ)ति/(आ)त् (आ)तः (आ)न्
मध्यमपुरुषः (आ)सि/(आ): (आ)थः (आ)थ
उत्तमपुरुषः आनि आव आम


सेव् धातोः लेट् लकारे रूपाणि [३]
लेट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेवते/सवातै सेवैते सेवन्ते/सेवन्त/सेवान्तै
मध्यमपुरुषः सेवसे/सेवासै सेवैथे सेवध्वे/सेवाध्वै
उत्तमपुरुषः सेवै सेवावहि/सेवावहै सेवामहि/सेवामहै
लेट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लेट् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ते/आतै ऐते अन्ते/अन्त/आन्तै
मध्यमपुरुषः से/आसै ऐथे ध्वे/आध्वै
उत्तमपुरुषः आवहि/आवहै आमहि/आमहै

ग्रन्थसूची[सम्पादयतु]

  1. Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
  2. Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. 1
  2. 2
  3. 2
"https://sa.wikipedia.org/w/index.php?title=लेट्_लकारः&oldid=486482" इत्यस्माद् प्रतिप्राप्तम्