सामग्री पर जाएँ

सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/101

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जगद्गुरुरामभद्राचार्यः

जगद्गुरुरामभद्राचार्यः पूर्वाश्रमे गिरिधरमिश्राख्यः, आर्यवर्ते उत्तरप्रदेशराज्यस्थचित्रकूटे निवसन्नेकः प्रख्यातविद्ववान् शिक्षाविद् रचनाकारः प्रवचनकारः दार्शनिकः सनातनधर्मगुरुश्चास्ति। सः रामानन्दसम्प्रदायस्य वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे १९८८तमे ईसवीयाब्दे प्रतिष्ठापितवांश्च।सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च । एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः।

(अधिकवाचनाय »)