वेदानां सामवेदोऽस्मि...
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
- इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः[सम्पादयतु]
वेदानां सामवेदः अस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥
अन्वयः[सम्पादयतु]
वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां मनः च अस्मि । भूतानां चेतना अस्मि ।
शब्दार्थः[सम्पादयतु]
- वेदानाम् = चतुर्णां वेदानाम्
- सामवेदः अस्मि = सामवेदः अस्मि
- देवानाम् = सुराणाम्
- वासवः अस्मि = इन्द्रः अस्मि
- इन्द्रियाणाम् = इन्द्रियाणाम्
- मनः च = चित्तम्
- भूतानाम् = प्राणिनाम्
- चेतना अस्मि = चैतन्यम् अस्मि ।
अर्थः[सम्पादयतु]
चतुर्षु वेदेषु अहं सामवेदः अस्मि । सुरेषु इन्द्रः अस्मि । इन्द्रियेषु मनः अस्मि । प्राणिषु चैतन्यम् अस्मि ।