सामग्री पर जाएँ

विविधप्रयोगसंहिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विधिप्रयोगसंहिता अथर्ववेदान्तर्भूता संहिता वर्तते। विधिप्रयोगसंहितायां मन्त्राणां प्रयोगः कस्यापि विशिष्टविधेः अनुष्ठानाय भवति। अस्याः अनुष्ठानस्य अवसरसे एकस्यैव मन्त्रस्य विभिन्नपदान् विभाज्य अभिनवमन्त्रस्य निर्माणं भवति। आर्षीसंहितायाः मन्त्रोऽयमस्ति -

‘ऋतुभ्यष्ट्वाऽऽर्त्तवेभ्यो, मादभ्यो संवत्सरेभ्यः ॥ घात्रे विधात्रे समृधे भूतस्य पतये यजे ॥'

मन्त्रविभागाः[सम्पादयतु]

मन्त्रस्यास्य निम्नलिखिता विभागाः सन्ति—

( १) ऋतुभ्यः त्वा यजे स्वाहा ।

( २ ) आर्तवेभ्यः त्वा यजे स्वाहा ।

( ३ ) माद्भ्यः त्वा यजे स्वाहा ।

( ४ ) संवत्सरेभ्यः त्वा यजे स्वाहा।

अनेनैव प्रकारेण 'धात्रे, विधात्रे, समृधे तथा भूतस्य पतये' इत्यादिपदानां पश्चात् 'त्वा यजे स्वाहा' इति पदस्य प्रयोगो भवति । विधौ प्रयुक्तभाविनां एतेषां मन्त्राणां समुदायः ‘विधिप्रयोगसंहिता' कथ्यते ।

‘विधिप्रयोगसंहितायाः' प्रथमोऽयं प्रकारोऽस्ति । अनेन प्रकारेण अस्याः अन्ये अपि चत्वारो भेदाः भवन्ति । तृतीयप्रकारे कस्यापि विशिष्टमन्त्रस्य 'आवर्तनम् तस्य सूक्तस्य प्रतिमन्त्रेण सह भवति । अनेन प्रकारेण सूक्तस्य मन्त्राणां संख्या द्विगुणिता भवति । चतुर्थप्रकारे कस्मिंश्चिदपि सूक्ते समागतानां मन्त्राणां क्रमस्य परिवर्त्तनं भवति । पञ्चमप्रकारे कस्यापि मन्त्रस्य अर्द्धभागमेव सम्पूर्णमन्त्रं मत्वा प्रयोगो भवति । अनेन प्रकारेण अार्थीसंहितायाः मन्त्राणां विधिप्रयोगसंहितायां पञ्चप्रकारेण प्रयोगाः भवन्ति ।

अनेन ज्ञातो भवति यद् ऋषिसंहिता एव मूलसंहिता अस्ति । अाचार्यसंहितायां अस्य संक्षेपीकरणं भवति। यदा विधिप्रयोगसंहितायामस्य विस्तृतीकरणं भवति। आचार्यदारिलस्य कौशिकसूत्रस्य भाष्यानुसारेण अथर्वसंहितायाः प्रकारत्रयस्य विश्लेषणं कृतमस्ति।[१]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. अथर्वसंहिता एकइट्स फाम्र्स बाई डा० एच० आर० दिवेकर, पृ० १९३-२१२
"https://sa.wikipedia.org/w/index.php?title=विविधप्रयोगसंहिता&oldid=423775" इत्यस्माद् प्रतिप्राप्तम्