सामग्री पर जाएँ

माहेश्वरसूत्राणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।

उद्धर्त्तुकामः सनकादिसिद्धान्नेतद्विमर्शे शिवसूत्रजालम्॥

महेश्वरस्य ढक्कायाः चतुर्दशनादाः उद्भूताः। ते एव संस्कृतभाषायाः अक्षराणि। एतानि एव माहेश्वरसूत्राणि इति पाणिनिः स्वस्य अष्टाध्यायीग्रन्थे उल्लिखितवान् अस्ति ।

चतुर्दश माहेश्वरसूत्राणि[सम्पादयतु]

अइउण्
ऋऌक्
एओङ्
ऐऔच्
हयवरट्
लण्
ञमङणनम्
झभञ्
घढधष्
जबगडदश्
खफछठथचटतव्
कपय्
शषसर्
हल्

इति माहेश्वराणि सूत्राणि।

प्रत्याहारः[सम्पादयतु]

एतेषु चतुर्दशसु अपि सूत्रेषु अन्ते स्वररहितं व्यञ्जनं श्रूयते । एतेन अन्तिमवर्णेन सह आदिमः वर्णः यदि उच्चार्यते तर्हि तदन्तिमवर्णं विहाय अन्ये सर्वे वर्णाः सङ्गृहीताः भवन्ति । यथा - अ इ उ ण् इति सूत्रस्थस्य अकारस्य ऐ औ च् इति सूत्रस्थेन चकारेण सह उच्चारणे अच् इति शब्दः निष्पाद्यते । एतेन अ इ उ ऋ ऌ ए ओ ऐ औ इति वर्णाः सङ्गृहीताः भवन्ति । एवं निष्पन्नः अच् इत्यादिः शब्दः प्रत्याहारः इति व्याकरणे प्रसिद्धः। "आदिरन्त्येन सहेता" इत्यनेन सूत्रेण प्रत्याहारशब्दस्य बोध: जायते । चतुर्दशसूत्रै: अनेकेषां प्रत्याहाराणाम् उत्पत्तिर्भवति । प्रत्याहाराणाम् आधारेणैव सम्पूर्णं व्याकरणं रचितम् ।

केचन प्रत्याहाराः[सम्पादयतु]

  1. अक् - अ इ उ ऋ ऌ
  2. यण् - य् व् र् ल्
  3. अच् - सर्वे स्वराः
  4. हल् - सर्वाणि व्यञ्जनानि

प्रत्याहाराणां नियमाः[सम्पादयतु]

  1. प्रत्याहारेण सूत्रान्ते वर्तमानस्य वर्णस्य ग्रहणं न भवति ।
  2. आदिमः वर्णः इत्यस्य सूत्रे आदौ एव वर्तमानः वर्णः इति नार्थः । किन्तु कस्मिंश्चित् कल्पिते समूहे आदौ वर्तमानो वर्णः इत्यर्थः । एतेन इक् वल् इत्यादयोऽपि प्रत्याहाराः सिद्ध्यन्ति ।
  3. प्रत्याहारेण यदि स्वराणां ग्रहणं तर्हि तैः सह दीर्घाणामपि ग्रहणं भवति ।
  4. प्रत्याहारेण यदि व्यञ्जनानां ग्रहणं तर्हि तत्र पुनः पुनः श्रूयमाणः अकारः न ग्राह्यः ।

प्रत्याहाराणां संख्या[सम्पादयतु]

एतैः चतुर्दशभिः माहेश्वरसूत्रैः आहत्य २८१ प्रत्याहाराः कर्तुं शक्याः : १४*३ + १३*२ + १२*२ + ११*२ + १०*४ + ९*१ + ८*५ + ७*२ + ६*३ + ५*५ + ४*८ + ३*२ + २*३ + १*१ - १४ (पाणिनिः एकाक्षरयुकतं प्रत्याहारं नाङ्गीकरोति)-१०(हकारद्वयं वर्तते इत्यतः १० कृत्रिमप्रत्याहाराः भवन्ति) । किन्तु पाणिनिना ४१ प्रत्याहाराः एव उपयुक्ताः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=माहेश्वरसूत्राणि&oldid=476777" इत्यस्माद् प्रतिप्राप्तम्