मरकतम्
विधाः[सम्पादयतु]
मरकतं शुकपक्षसदृशवर्णम् - वंशपत्रसदृशम् - कदली - निभम् - शिरीषकुसुमप्रभं चेत्यनेकविधम् ।
उप्तत्तिः[सम्पादयतु]
मरकतं तुरुष्कविषये, अम्भोधिसमीपे, विषमस्थले च उत्पद्यते ।
दोषाः[सम्पादयतु]
तस्य सप्तदोषाः - रूक्षम्, सपिटकम्, विच्छायम्, कर्करम्, जठरम्, शबलम्, सपाषाणं चेति ।
गुणाः[सम्पादयतु]
तस्य पञ्च गुणाः - स्वच्छम्, गुरु, स्निग्धम्, अरजस्कम्, सुरागं चेति ।
छाया[सम्पादयतु]
मरकतच्छाया अष्टविधाः -
- बर्हिपिच्छसमा भासा
- चाषपक्षसमप्रभा
- काचादिदोषरहिता
- शैवालसन्निभा
- खद्योतपृष्ठसङ्काशा
- शुकपत्रसमा
- नवशाद्वलनिभा
- शिरीषकुसुमप्रभा चेति ।