अवजानन्ति मां मूढा...
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
- परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अवजानन्ति मां मूढाः मानुषीं तनुम् आश्रितम् परं भावम् अजानन्तः मम भूतमहेश्वरम् ॥ ११ ॥
अन्वयः[सम्पादयतु]
मम परं भावम् अजानन्तः मूढाः मानुषीं तनुम् आश्रितं मां भूतमहेश्वरम् अवजानन्ति ।
शब्दार्थः[सम्पादयतु]
- मम = मम
- परं भावम् = श्रेष्ठं तत्त्वम्
- अजानन्तः = अनवगच्छन्तः
- मूढाः = अविवेकिनः
- मानुषीम् = मानवीम्
- तनुम् = मूर्तिम्
- आश्रितम् = प्राप्तम्
- भूतमहेश्वरम् = भूतानाम् अधिपम्
- माम् अवजानन्ति = मां परिभवन्ति ।
अर्थः[सम्पादयतु]
सर्वेषां भूतानाम् ईश्वरोऽहं भक्तेच्छावशात् मनुष्यरूपेण भूमौ अवतीर्णः अस्मि । मम इमं मनुष्याकारं दृष्ट्वा अविवेकिनः अयं साधारणः इति भावयन्तः तिरस्कुर्वन्ति ।