ध्यानेनात्मनि पश्यन्ति...
(१३.२४ ध्यानेनात्मनि. इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
- अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः[सम्पादयतु]
ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन च अपरे ॥ २४ ॥
अन्वयः[सम्पादयतु]
केचित् ध्यानेन आत्मनि आत्मना आत्मानं पश्यन्ति । अन्ये साङ्ख्येन योगेन, अपरे कर्मयोगेन ।
शब्दार्थः[सम्पादयतु]
- केचित् = केचित् जनाः
- ध्यानेन = आत्माकारप्रत्ययावर्तनेन
- आत्मनि = देहे
- आत्मना = अन्तःकरणेन
- आत्मानम् = सर्वात्मानम्
- साङ्ख्येन योगेन = प्रकृतिपुरुषविवेकरूपेण ज्ञानयोगेन
- कर्मयोगेन = फलनिरपेक्षकर्मणा ।
अर्थः[सम्पादयतु]
केचन आत्माकारप्रत्ययावर्तनरूपेण ध्यानेन देहे वर्तमानम् आत्मानं मनसा पश्यन्ति । अपरे प्रकृति - पुरुषविवेकरूपेण ज्ञानयोगेन अन्ये पुनः निष्कामकर्माचरणरूपेण कर्मयोगेन ।