सामग्री पर जाएँ

बि.के.एस्. अय्यङ्गार्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बी.के.एस. अयंगार इत्यस्मात् पुनर्निर्दिष्टम्)
बि.के.एस्. अय्यङ्गार्
२००४ तमे वर्षे स्वीये ८६ तमे जन्मदिनोत्सवे
जन्म Bellur Krishnamachar Sundararaja Iyengar Edit this on Wikidata
(१९१८-२-२) १४ १९१८ (आयुः १०५)
बेळ्ळूरु (कोलारमण्डलम्), कर्णाटकराज्यम्
मृत्युः २० आगस्ट् २०१४ Edit this on Wikidata (आयुः ९५)
पुणे Edit this on Wikidata
वृत्तिः योगगुरुः, ग्रन्थकर्ता च
अपत्यानि गीता, विनीता, सुचिता
सुनीता, सविता, प्रशान्त
जालस्थानम् http://www.bksiyengar.com/ Edit this on Wikidata

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् [१] (डिसेम्बर् १४, १९१८ - अगस्ट् २०, २०१४) प्रसिद्धः योगगुरुः । आ प्रपञ्चे भारतीययोगस्य प्रचारं कर्तुं महान् प्रयासः कृतः । योगविषये बहवः विद्वत्पूर्णग्रन्थाः अनेन लिखिताः सन्ति । योगक्षेत्रे तस्य योगदानं पुरस्कृत्य २०१४ तमस्य वर्षस्य पद्मविभूषणप्रशस्तिः तस्य कृते घोषितः अस्ति । [२][३]

जननं बाल्यञ्च[सम्पादयतु]

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गारः [४] मैसूरुनगरे १९१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के अजायत । पिता कृष्णमाचार्-वर्यः शिक्षकः । माता शेषम्मा । अस्य नवमे एव वयसि पिता दिवङ्गतः । अयं बाल्यावस्थायाम् 'इन्फ्लुयेञ्हा'रोगेण, क्षयरोगेण च पीडितः आसीत् । निर्धनकुटुम्बे जातस्य अस्य सर्वदा अपि पौष्टिकाहारस्य अभावः बाधते स्म । स्वीये १५ वयसि मैसूरुनगरं गत्वा योगगुरोः तिरुमलै कृष्णमाचार्यस्य गृहे एव निवसन् तस्य मार्गदर्शने योगाभ्यासम् अकरोत् ।

प्रमुखानि पुस्तकानि[सम्पादयतु]

  • B.K.S. Iyengar, Light on Yoga, Schocken Books; Revised edition (January 3, 1995), trade paperback, 544 pages, ISBN 0-8052-1031-8
  • B.K.S. Iyengar, Light on Pranayama, Crossroad/Herder & Herder; (June 1995), trade paperback, 320 * pages, ISBN 0-8245-0686-3
  • B.K.S. Iyengar, The Tree of Yoga, Shambala, (1988), trade paperback, 184 pages, ISBN 0-87773-464-
  • B.K.S. Iyengar, Light on the Yoga Sutras of Patanjali, South Asia Books; 1 edition (August 1, * 1993), trade paperback, 337 pages, ISBN 1-85538-225-3
  • B.K.S. Iyengar, Light on Life: The Yoga Journey to Wholeness, Inner Peace, and Ultimate Freedom, Rodale; (2005), hardcover, 282 pages, ISBN 1-59486-248-6

टिप्पणी[सम्पादयतु]

  1. http://www.bksiyengar.com/modules/guruji/guru.htm
  2. "संग्रह प्रतिलिपि". Archived from the original on 2014-01-25. आह्रियत 2014-08-20. 
  3. "Padma Awards Announced". Press Information Bureau, Ministry of Home Affairs. 25 January, 2014. आह्रियत 2014-01-26. 
  4. "संग्रह प्रतिलिपि". Archived from the original on 2009-04-16. आह्रियत 2004-10-07. 

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बि.के.एस्._अय्यङ्गार्&oldid=480653" इत्यस्माद् प्रतिप्राप्तम्